वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अहमीयुराङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣पघ्न꣡न्प꣢वते꣣ मृ꣢꣫धोऽप꣣ सो꣢मो꣣ अ꣡रा꣢व्णः । ग꣢च्छ꣣न्नि꣡न्द्र꣢स्य निष्कृ꣣त꣢म् ॥१२१३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अपघ्नन्पवते मृधोऽप सोमो अराव्णः । गच्छन्निन्द्रस्य निष्कृतम् ॥१२१३॥

मन्त्र उच्चारण
पद पाठ

अ꣣पघ्न꣢न् । अ꣣प । घ्न꣢न् । प꣣वते । मृ꣡धः꣢꣯ । अ꣡प꣢꣯ । सो꣡मः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । ग꣡च्छ꣢꣯न् । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣣म् ॥१२१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1213 | (कौथोम) 5 » 1 » 7 » 1 | (रानायाणीय) 9 » 5 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५१० क्रमाङ्क पर परमात्मा के पक्ष में की जा चुकी है। यहाँ वीररस का विषय दर्शाते हैं।

पदार्थान्वयभाषाः -

(सोमः) जगाया हुआ वीर रस (इन्द्रस्य) जीवात्मा के (निष्कृतम्) संस्कृत किये हुए मनरूप घर में (गच्छन्) जाता हुआ, (मृधः) सङ्ग्रामकारियों को (अपघ्नन्) हिंसित करता हुआ और (अराव्णः) अदानशील कृपण शत्रुओं को (अप) विनष्ट करता हुआ (पवते) प्रवाहित होता है ॥१॥

भावार्थभाषाः -

वीर रस में डूबा हुआ मानव सब आन्तरिक तथा बाह्य शत्रुओं को विनष्ट कर सकता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५१० क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र वीररसविषयः प्रदर्श्यते।

पदार्थान्वयभाषाः -

(सोमः) जागरितः वीररसः (इन्द्रस्य) जीवात्मनः (निष्कृतम्) संस्कृतं गृहम् मनोरूपम्। [निरित्येष समित्येतस्य स्थाने। एमीदेषां निष्कृतं जारिणीव (ऋ० १०।३४।५) इत्यपि निगमो भवति। निरु० १२।७।] (गच्छन्) व्रजन्, (मृधः) सङ्ग्रामकारिणः (अपघ्नन्) अपहिंसन्, अपि च (अराव्णः) अदानशीलान् कृपणान् शत्रून् (अप) अपघ्नन् अवहिंसन् (पवते) प्रवहति ॥१॥

भावार्थभाषाः -

वीररसेनाप्लुतो मानवः सर्वानान्तरान् बाह्यांश्च शत्रूनुच्छेत्तुं प्रभवति ॥१॥

टिप्पणी: १. ऋ० ९।६१।२५, साम० ५१०।